150+ new essays in our Android app.

ज्योतिषशास्त्रम् (Sanskrit Essay on Astrology)

ज्योतींषि ग्रहनक्षत्राणि अधिकृत्य प्रवर्तितं यच्छास्त्रं तन्नाम ज्योतिषमिति कथ्यते। इदं तु प्रत्यक्षं शास्त्रम् अस्ति। यतोहि अन्येषु शास्त्रेषु यथा विवादा: सन्ति तथा अत्र न सन्ति। सूर्यचन्द्रबुधशुक्रादिग्रहाणां गतिस्थित्यादीनां वर्णनम् अत्र भवति। एतेषां ग्रहाणां प्रत्यक्षदर्शनम् अस्माभि: क्रियते अत: शास्त्रमिदं प्रत्यक्षम् अस्ति इति सिध्यति। एतदतिरिक्ता अपि – लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रम्, भृगुसंहिता, मीनराजजातकप्रभृतय आर्षग्रन्थाः, लघुजातकम्, बृहज्जातकम्, सारावलिः, जातकाभरणम् जातकपध्दतिः , जातकसारः, जातकालङ्कारः, पदमजातकम्, होरारत्नम्, होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिदं समृध्दं कुर्वन्ति । केरलमतप्रतिपादका ग्रन्थाः, प्रश्नग्रन्थान्तराणि, रमलग्रन्थाः ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषका एव ।
असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्यस्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रकाशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः ।

1 comment:


Unable to find desired essay ? Get it in our Android app.
Download here