100+ new essays in our Android app.

भारतीयसंस्कृतिः (Sanskrit Essay on Indian Culture)

पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्यधार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन हिन्दुधर्मस्यबौद्धधर्मस्यजैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् । तत्रापि हिन्दुधर्मः जगति एव तृतीयः महाधर्मः । चतुर्थे स्थाने अस्ति बौद्धधर्मः । एतयोः द्वयोः धर्मयोः अनुयायिनः १.४ शतकोट्यपेक्षया अधिकाः सन्ति । भारतं विश्वे एव महान् धार्मिकवैविद्यतायाः देशः । अत्रत्यानां जनानां जीवने अद्यापि धर्मः निर्णायकं पात्रं निर्वहति । भारतस्य पमुखः धर्मः हिन्दुधर्मः । यतः अत्रत्यायाः जनसंख्यायाः ८०.४ % अपेक्षया अपि अधिकाः हिन्दुधर्मम् अनुसरन्ति । १३.४% जनाः इस्लां धर्मम् अनुसरन्ति । सिख्-जैन-बौद्धधर्माणां जनाः न केवलं भारते अपि तु विश्वस्य सर्वेषु भागेषु व्याप्ताः सन्ति । विश्वस्य अन्येषां मतानां क्रैस्त-झोराश्ट्रियन्-यहूद्य-बहायि-मतानाम् अनुयायिनः अपि अल्पप्रमाणेन सन्ति अत्र । तैः सह एव नास्तिकाः आज्ञेयतावादिनः अपि सन्ति भारते ।

वैशाखी पर्व (Sanskrit Essay on Vaisakhi)


वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति ।

Our app has full page Vaisakhi essay.
Download app here.
Navigate to Home> Festivals > Vaisakhi in our app

वेदः (Sanskrit Essay on Vedas)

चत्वारः वेदाः भवन्ति । ऋग्वेदःयजुर्वेदःसामवेदःअथर्ववेदश्चेति  एकैकस्यापि संहिताब्राह्मणम्आरण्यकम्उपनिषत् इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । 

Our app has full page Ved essay.
Download app here.
Navigate to Home> Ancient  > Ved in our app

नेल्सन् मण्डेला (Sanskrit Essay on Nelson Mandela )

नेल्सन् मण्डेला दक्षिण-आफ्रिकादेशस्य सुप्रसिद्धः नायकः । नेल्सन् रोलिह्लाह्ल मण्डेला अस्य पूर्णनाम भवति । अमेरिकादेशस्य मार्टिन् लूथर् किङ्ग् यथा वर्णभेदस्य विरुद्धम् आन्दोलनं कृतवान् तथैव अयमपि स्वदेशे आन्दोलनं कृतवान् । अत्रत्य जनानां प्रीतिपात्रः अस्ति । अधुनिकयुगस्य राजकीयक्षेत्रस्य सुप्रसिद्धः, नैतिकव्यक्तित्वयुक्तः च आसीत् । भारतस्य राष्ट्रपतिचरः के.आर्. नारायणन् ’अधुनिकगान्धिः’ इति एनं सम्बोधितवान् आसीत् ।नेल्सन् मण्डेलः जुलैमासस्य १८ तमे दिनाङ्के १९१८ तमे संवत्सरे दक्षिण-आफ्रिकादेशस्य ट्रान्स्कै पत्तनस्य उयतलसमीपस्थे क्वुनुग्रामे अजायत । अस्य जनाङ्गस्य सम्प्रदायानुसारं नाम स्थापितम् आसीत् । अस्य पिता हेन्रिगाड्ला । अस्य चतस्रः भार्याः आसन् ।आफ्रिकादेशे वर्णभेदः बहुधा कृष्णवर्णीय जनान् पीडयति स्म । प्राथमिकशिक्षणाध्ययनकाले विरमेषु समयेषु बान्धुभिस्सह गोपालनार्थं गच्छति स्म । कश्चनः बन्धुः वर्णभेदस्य विषये अफ्रिकादेशे विद्यमानान् क्लेशान् बोधितवान् । तदारभ्य अस्य मनसि वर्णभेदस्य निवारणार्थं चिन्तनम् आसीत् । अस्मिन् देशे कृष्णवर्णीयाः आन्दोलनं कर्तुं न शक्नुवन्ति स्म । ग्रन्थालयेषु प्रवेशः न आसीत् । चलचित्रमन्दिरेश्वपि प्रवेशः न आसीत् । कृष्णवर्णीयजनेभ्यः स्वातन्त्र्यमेव न आसीत् । मेमासस्य १९६१ तमे संवत्सरे नेटाल्-देशस्य पीटर् यार्ट्ज बर्गनगरे अस्य भाषणम् आसीत् । निषेधः इति बहुदिनेभ्यः भाषणं न कृतवान् आसीत् । किन्तु तत्रत्य भाषणं प्रचोदनकारी सार्वकारस्य विरुद्धं च आसित् । बन्धितुम् आरक्षकाः प्रयासं कृतवन्तः । ततः सह पलायितः । 

महाराणा प्रताप ( Sanskrit Essay on Maharana Pratap )

'मेवाड' इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे वर्षे जातः ।

Our app has full page Maharana Pratap essay.
Download app here.

Navigate to Home> People > Maharana Pratap in our app

स्वच्छभारताभियानम् ( Sanskrit Essay on Swacch Bharat Abhiyan )

स्वच्छभारताभियानम्  इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम्  २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्के भारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते ।

Our app has 5 lines Swacch Bharat Abhiyan essay.
Download app here.

Navigate to Home> General in our app

राष्ट्रियबालदिनम् (Sanskrit essay on Children's Day )

श्री जवाहरलालनेहरुः भारतस्य प्रथमप्रधानमन्त्री आसीत् । महान् देशभक्तः श्रेष्ठलेखकः पण्डितः जवहारलालनेहरुः बालैः सह सदा वार्तालापं करोति स्म । बालान् प्रति प्रीतिं दर्शयति स्म । अत एव नायकाः श्री जवाहरलालमहोदयस्य जन्मदिनं तस्य इच्छानुसारेण बालदिनम् इति आचरन्ति ।१९१६ तमे वर्षे जवाहरलालनेहरुः मेलकौलराजपतिदेवीदम्पत्योः सुतां कमलां परिणीतवान् । १९१७ तमे वर्षे जवाहरलालनेहरुमहोदयस्य प्रथमा पुत्री सञ्जाता । इन्दिराप्रियादर्शिनी इति तस्याः नाम कृतवान् । श्रीमोतिलालनेहरुमहोदयस्य सुतस्य राजकीयप्रवेशः इष्टः न आसीत् । १९१९ तमे वर्षे जवाहरलालनेहरुः बार एटला पदवीं प्राप्य अलहाबादश्रेष्ठन्यायालये न्यायवादिवृत्तिम् आरभ्य अग्रे महात्मागान्धिनः प्रभावात् भारतीय- स्वातन्त्र्यान्दोलनम् प्रविष्टवान् ।

ए पि जे अब्दुल् कलाम् ( Sanskrit Essay on Dr. Abdul Kalam )

अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः १५ अक्टोबर् १९३१ – २७ जुलै २०१५ अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् ।लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् ।

Our app has full page Abdul Kalam essay.
Download app here.

Navigate to Home> People  > Abdul Kalam in our app

जलमालिन्यम् ( Sanskrit essay on Water Pollution )

जलमालिन्यं प्रमुखेषु परिसरमालिन्येषु अन्यतमं विद्यते । सरोवराः, नद्यः, समुद्राः इत्यादिषु अनपेक्षितानां वस्तूनां संयोगेन जलमालिन्यं भविष्यति ।अस्मिन् दशके अस्माकं भूमण्डलस्य परिसरस्य प्रदूषणं विषयीकृत्य सर्वेषु राष्ट्रेषु बहुभिः नेतृभिः प्राज्ञैः वैज्ञानिकैः पौरजनैः विशेषेण चर्चा प्रचालिता । 

Our app has full page Water Pollution essay.
Download app here.


Navigate to Home>  General >  Water Pollution in our app

रक्षाबन्धनम् ( Sanskrit essay on Rakshabandhan )

रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः ।

Our app has full page Rakshabandhan essay.
Download app here.

Navigate to Home> Festivals>  Rakshabandhan in our app

चाणक्यः ( Sanskrit essay on Chanakya )

चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्यप्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च ।

Our app has full page Chanakya  essay.
Download app here.


Navigate to Home> People > Chanakya  in our app

पुष्पाणि ( Sanskrit essay on Flower )

पुष्पाणि अथवा कुसुमानि वृक्षाणां लतानां वा सन्तानसंवर्धकानां बीजानाम् निर्माणस्य मूलानि भवन्ति । लोके कुसुमानि सर्वजनप्रियाणि तेषां क्वचित् सौन्दर्येण क्वचित् सुगन्धेन क्वचित् उभयाभ्यां च । पुष्पाणि सस्यानां बीजोत्पादनस्य प्रक्रियायाः परागस्पर्शः गर्भीकरणस्य मूलस्थानं भवन्ति।पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।पुष्पाणि सपुष्पकाणां पुनरुत्पादनसाधनानि सन्ति।हरितदलानि -मुकुलं रक्षन्ति।पुङ्केसरः- रेणुं रचयति।
पुष्पेषु चत्वारि खण्डानि सन्ति।हरितदलानि मुकुलम् रक्षन्ति।रञ्जितदलानि षट्पदान् आकर्षन्ति।पुङ्केसरः रेणुं रचयति।गर्भकेसरः अस्मिन् एव बीजानि वर्धन्ते।
भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयन्ति। जनाः कानिचन पुष्पाणि खादन्ति। केसरः उपस्करः वर्तते। पुष्पेभ्यः मधु लभ्यते। शुष्कपुष्पैः चायपानं कर्तुं शक्यते।

चाणक्यः ( Sanskrit essay on Chanakya )

चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य:अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवनेतक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।

नेपाल महाभूकम्प २०१५ ( Sanskrit essay on Nepal earthquake )

भूगर्भे विविधकारणेभ्यः सम्पन्नः कम्पनमित्यादि वैपरीत्यमेव भूकम्पः । २०७२ वैक्रमाब्दस्य वैशाख शुक्ल सप्तम्याम् (वैशाख १२ दिनाङ्के) ११.५६ होरायाम् नेपाल देशे ७.८ रेक्टर्मापने महाभूकम्पः सञ्जातः । एतत् भूकम्पे शतसः मन्दिराः नवतिसहस्राधिक एकलक्ष परिमितानि गृहाणि च पूर्णरूपेण नष्टाः । पञ्चशताधिक सप्तसहस्रपरिमिताः जनाः कालकवलिताः । १४४४६ जना अाहताश्च ।काष्ठमण्डपमण्डले १२२० परिमिताः जनाः मृताः ४६३४ जनाः अाहताः ।एतन्मण्डले मृतकानाम् सङ्ख्या २६९ अाहतानाम् संख्या १८८५ वर्तते ।एतन्मण्डले मृतकानाम् सङ्ख्या १७१ अाहतानाम् संख्या १०९० वर्तते ।काष्ठमण्डप मण्डलतः पश्चिमदिशि स्थितः धादिङमण्डले ७०२ परिमिताः जनाः महाभूकम्पेन हताः सन्ति ।एतन्मण्डले मृतकानाम् सङ्ख्या ३०८ अाहतानाम् संख्या ७४८ वर्तते ।एतन्मण्डले मृतकानाम् सङ्ख्या ४१० अाहतानाम् संख्या १३२ वर्तते ।

यष्टिकन्दुकक्रीडा ( Sanskrit essay on Hockey )

यष्टिकन्दुकक्रीडा एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा भारतदेशस्य राष्ट्रियक्रीडा वर्तते ।कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पद्भ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । 

Our app has full page Hockey  essay.
Download app here.



Navigate to Home> General > Hockey  in our app

वाल्मीकिः ( Sanskrit Essay on Valimiki )

वाल्मीकिमहर्षिः  श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । 

Our app has full page Valmiki essay.
Download app here.



Navigate to Home> People > Valmiki  in our app

योगः ( Sanskrit essay on Yoga )

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च ।

Our app has full page Yoga essay.
Download app here.

Navigate to Home> Ancient > Yog  in our app

व्याघ्रः ( Sanskrit Essay on TIger )

प्राणिसाम्राज्ये सस्तनीवर्गे अन्तर्भूतः 'फेलिडे'कुटुम्बः एव मार्जालकुटुम्बः । सिंहः व्याघ्रः चित्रोष्ट्रः मार्जालादयश्च फेलिडेकुटुम्बस्य प्रभेदाः एव । एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम् । एते ३७ प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते ।भारते पुराणकथासु विग्रहेषु च व्याघ्रः विशेषगौरवभाक् दृश्यते । कालीदेव्याः वाहनरूपः अस्ति व्याघ्रः । महाभारते नलदमयन्त्योः कथायां गोमुखव्याघ्रः इत्येषः शब्दप्रयोगः दृश्यते । बौद्धग्रन्थेषु च व्याघ्रस्य उल्लेखः दृश्यते ।भारतस्य राष्ट्रियप्राणी व्याघ्रः अरण्यस्य अनभिषिक्तः सम्राट् वर्तते । दर्प-धैर्य-गाम्भीर्याणां प्रतिनिधिः अस्ति व्याघ्रः । दृढकायः, भीमबलः, अनुशासनयुक्तः, सङ्कोचस्वभावी एकाकी अस्ति अयं व्याघ्रः । उत्तमतरणपटुः, सहनाशीलः, अद्भुतदृष्टिशक्ति-घ्राणशक्तियुक्तः, तीक्ष्णजिह्वायुक्तः, दीर्घश्मश्रुमान् भीरुः अस्ति व्याघ्रः ।अत्युत्तमं शरीरदार्ढ्यं, लघु कण्ठः, सुन्दरौ कपोलौ, वृत्ताकारकं मुखं शिरश्च, तन्वाकारकौ कृष्णवर्णीयौ ओष्ठौ, दृढः मांसखण्डः, प्रकाशयतः नेत्रे, स्थूलरेखाभिः युक्तः सुवर्णवर्णः कायः, दीर्घाः श्वेताः श्मश्रवः, शरीरस्य अन्तर्भागे उदरे पादयोः च श्वेतकेशाः, नेत्रयोः उपरितने भागे श्वेतवर्णीयाः कालकाः दृश्यन्ते । आरोग्यवतः दृढकायस्य व्याघ्रस्य औन्नत्यं १२ पादमिताः, भारश्च २७५ किलोग्राम्-युतश्च भवति । तस्य शरीरस्य वर्णः आकारश्च तस्य प्रदेशस्य वातावरणं, जलं, मृत्तिका, सस्यसम्पत्तिः, आहारादिकञ्च अनुसरति ।

भूकम्पः ( Sanskrit Essay on Earthquake )

भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पनमित्यादी वैपरीत्यमेव भूकम्पः ।भूकम्पः यदा सम्भवति तदा तरङ्गाणां सरण्या भूमिः कम्पिता भवति । भूकम्पस्य केन्द्रं परितः एते तरङ्गाः प्रसरन्ति । भूमेरन्तः वर्तमानानां शिलास्तराणां भङ्गेन जायमानात् कम्पनकेन्द्रं गणयित्वा भूमेरुपरि भूकम्पकेन्द्रम् इति वदन्ति । कदाचित् भूकम्पस्य परिणामतःभूमि एकनिमेषतः अपि अधिकं कालं यावत् कम्पते । भूकम्पात् जायमानस्य नष्टस्य कारणं भूकम्पस्य तीव्रता एव । अधिकजनयुतेषु प्रदेशेषु अधिका हानिः सम्भवति ।मर्क्यालिमानम् – एतत् मानं भूकम्पस्य तीव्रतां मापयित्वा , अमुके प्रदेशे प्रवृत्तस्य भूकम्पस्य प्रमाणं विवृणोति ।एतस्मिन् रोमन् संख्या I तः XII पर्यन्तं भवति | अत्र परिणामाः संक्षिप्ततया प्रदत्ताः।एतत्मापनं भूकम्पस्य प्रमाणं अथवा विस्तारं मापयितुं उपयुनक्ति ।सेस्मोग्राफ उपकरणेन भूकम्पतः उत्पन्नां शक्तिं मापयितुं शक्यते ।एतान्मानचित्रम् बृहत्भूकम्पवलयं दर्स्शयति । शान्तसागरस्य तटपर्यन्तं तथा आल्फपर्वतश्रेण्यां, हिमालयमध्ये वर्तमानपर्वतश्रेणीनां तथा तासां समीपि भूकम्पः सामान्यतया सम्भवति । प्रगतशतमानस्य विपत्कारिणं भूकम्पाः प्रत्येकं भूकम्पः रेक्टर् उपकरणे अष्टमस्थानं अतिक्रान्तः । १७५५ तमे वर्षे लिस्बन्प्रदेशे सम्भूतः भूकम्पः रिक्टर्मापने ८.७५ तः ९ पर्यन्तं तीव्रतायुक्तः आसीत् । चीनादेशस्य षेंन्सिप्रदेशे प्रवृत्ते १५५६ तमे वर्षे प्रवृत्ते भूकम्पे ८,३०,००० जनाः कालकवलीभूताः ।

भरद्वाजमहर्षिः ( Sanskrit Essay in Bhardwaj Maharshi )

सुदीर्घकालं जीवन् अपि मानवः इतोऽपि अधिककालं जीवितुम् इच्छति । एषः मानवस्य स्वभावः । परन्तु तदेव जीवनम् उन्नतध्येयसाधननिमित्तं यदि भवति तर्हि तत् नितरां प्रशस्यते । सप्तर्षिषु अन्यतमस्य भरद्वाजस्य कथा अत्र उत्तमम् उदाहरणम् अस्ति । भरद्वाजः अत्रिमुनेः पुत्रः आदिकाव्यस्य रामायणास्य कर्तुं वाल्मीकिमुनेः शिष्यः च । सः वेदाध्ययने, देवध्याने च निरतः आसीत् । यदा मराकालः सन्निहितः तदा पुनः इन्द्रस्य ध्यानं कृत्वा - ‘मम आयुः वर्धयतु’ इति प्रार्थितवान् भरद्वाजः । प्रत्यक्षीभूतः इन्द्रः भरद्वाजम् आत्मना सह किञ्चिद्दूरं नीतवान । दूरे उन्नताः त्र्यः पर्वताः द्दश्यन्ते स्म । इद्न्रः भरद्वज्स्य अञ्जल्यां मुष्टित्रयपरिमिताः सिकताः स्थापितवान् । भरद्वाजः मौनं स्थितवान् आसीत् ।
"दूरे स्थितानां पर्वतानां महत्वं मनसि निधाय भवान् वदतु -अञ्जल्यां स्थितानां सिकतानां परिमाणं कियत् ?" इति प्रुष्ट्वान क्न्द्रः । "क्क ते पर्वताः क्क च अञ्जलिमिताः सिकताः ! महत् अन्तरम् एतयोः " इति उक्तवान् भाद्वाजः । तदा इन्द्रः -"भवता ज्ञातं वेदज्ञानम् अपि मुष्टिपरिमितम् एव । बवता पर्वतपरिमितं ज्ञातव्यम् अस्ति " इति उक्तवान् इन्द्रः । भरद्वाजः मदवचनात् भीतः सन्- यावत् ज्ञातं तावता अलम् इति वदेत् , अथवा अहङ्कार्ण -मया सर्वं ज्ञातम् अस्ति इति व वदेत्’ इति इन्द्रः चिन्तितवान् आसीत् । भरद्वाजः तु किञ्चितकालं यावत् मौनं स्थित्वा - "तर्हि ज्ञानं नाम तावत् बृहत वा ! तत् मया सम्पादनीयम । भवतः आशीर्वादःअ अस्ति चेत् तान् त्रीन् अपि पर्वतान् मदीयान् करिष्यामि" इति म्,अहता विनयेन उक्तवान । भरद्वाजस्य द्दढम् आत्मविश्वासम्, उन्नतध्येयं च ज्ञात्वा इन्द्रः आश्चर्यचकितः अभवत् । सः भरद्वाजं पुनः अपि शतवर्षपरिमितेन आयुषा अनुगृह्य अद्दश्यतां गतः ।

नरेन्द्र मोदी ( Sanskrit Essay on Narendra Modi )

नरेन्द्र दामोदरदास  मोदी वर्यस्य समर्थत्वेन दूरदर्शि नेतु: स्वरूपे आदरं कुर्वन्ति। य: पारदर्शितया निश्चितरीत्या च सर्वेषां जीवनं परिवर्तयन् समीकुर्वन् च वर्तते। महोदय: कुशल: वक्ता निपुण: मन्त्रणाकार: चास्ति। श्रीनरेन्द्रमोदी ग्रामीणानां नागरिकानां समानं स्नेह प्राप्नोति। 

Our app has full page Narendra Modi essay.
Download app here.



Navigate to Home> People > Narendra Modi in our app

जलम् ( Sanskrit Essay on Water )

जलम्  एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते ।
अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते ।

सङ्गणकम् ( Sanskrit essay on Computer )

सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च।

Our app has full page Compuer essay.
Download app here.

Navigate to Home> General > Computer in our app

होली ( Sanskrit Essay on Holi )

होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति पुराणेषु ।

Our app has full page Holi essay.
Download app here.
Navigate to Home> Festivals  > Holi in our app

स्वच्छभारताभियानम् ( Sanskrit essay on Swacch Bharat Abhiyan )

स्वच्छभारताभियानम् इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम् । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्केभारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत्  ।

 २०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४)                              दिनाङ्के स्वतन्त्रतादिनपर्वणि भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् महात्मजयन्तीपर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के नवदेहली-महानगरस्थे राजघाटे प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहली-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।

फलानि ( Sanskrit Essay on Fruits )

फलम् अपि द्विविधं भवति । कानिचन फलानि यदा वर्धन्ते तदा एव सेवन्ते । अन्यानि कानिचन शुष्कीकृत्य अनन्तरं सेवन्ते । तादृशानि शुष्कफलानि इति उच्यन्ते । अतः वयं फलानि द्विधा विभक्तुं शक्नुमः ।

सचिन तेण्डुलकर ( Sanskrit Essay on Sachin Tendulkar )

सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति ।

Our app has full page Sachin essay.
Navigate to Home> People > Sachin in our app

संस्कृतवाङ्मयम् ( Sanskrit Essay on Sanskrit Literature )

संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः ।

Our app has full page Sanskrit Literature essay.
Navigate to Home> Ancient > Sanskrit Literature in our app

भारतस्य राष्ट्रध्वजः ( Sanskrit Essay on India Flag )

भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेणसुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् ।भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् ।
Our app has full page Indian Flag essay.
Navigate to Home> General > Indian Flag in our app

विद्या ( Sanskrit Essay on knowledge "Vidya" )

भारतीयसङ्कल्पानुसारं विद्याविनयसम्पत्तिः विनयाधानम् इत्यादिप्रयोगः एव साधु । यतः विद्या ददाति विनयम् इति खलु प्रसिध्दम् । प्रामाणिकग्रन्थेषु विद्याभ्यासः इति पदप्रयोगः अपि न दृश्यते विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि इत्येवं भगवद्गीतायां प्रयोगः अनेन प्रयोगेण अस्य लक्ष्यमपि अवगच्छति ।

Our app has full page Knowledge essay.
Download app here.

Navigate to Home> General > Knowledge in our app

Unable to find desired essay ? Get it in our Android app.
Download here